DNA
-
James Dewey Watson is an American molecular biologist, geneticist and zoologist, best known as one of the co-discoverers of the structure of DNA in 1953 with Francis Crick and Rosalind Franklin.
जेम्स् डि व्याट्सन्
अयं जेम्स् डि. व्याट्सन् (James D. Watson) सुप्रसिद्धः वंशशास्त्रस्य (आनुवंशिक) विज्ञानी । अयं जेम्स् डि. व्याट्सन् "द्विचक्रकस्य रचनायाः” संशोधकेषु अन्यतमः । अयम् इलियान्–संस्थानस्य शिकागोप्रदेशे १९२८ तमे वर्षे एप्रिल्मासस्य ६ दिनाङ्के जन्म प्राप्नोत् । एषः बाल्यात् आरभ्य अपि अत्यन्तं बुद्धिमान् आसीत् । १५ वयसि एव शिकागोविश्वविद्यालयं प्राविशत् । १९४७ तमे वर्षे पदवीं, १९५० तमे वर्षे इण्डियानविश्वविद्यालयतः "डाक्टरेट्”–पदवीं च प्राप्नोत् । अस्य जेम्स् डि. व्याट्सनस्य आसक्तिः आसीत् पक्षिविज्ञाने । किन्तु तस्मिन् एव विश्वविद्यालये विद्यमानस्य प्रतिभावतः विज्ञानिनः हेच्. जे. मुल्लरस्य प्रभावेण जीवरसायनशास्त्रस्य, वंशविज्ञानस्य च अध्ययनम् अकरोत् । वर्षं यावत् कोपन्हेगन्–विश्वविद्यालये कार्यं कृत्वा १९५१ तमे वर्षे केम्ब्रिड्ज्–विश्वविद्यालयं प्राविशत् ।
एषः जेम्स् डि. व्याट्सन् केम्ब्रिड्ज्–विश्वविद्यालये फ्रान्सिस् एच् सि क्रिक् इत्यनेन सह "डी एन् ए"-अणोः रचनायाः विषये दीर्घकालं संशोधनम् अकरोत् । तयोः संशोधनस्य निमित्तम् अपेक्षितं साहाय्यम् आचरितवान् मारीस् एच् विल्किन्स् नामकः भौतविज्ञानी । तदनन्तरम् अमेरिकादेशं प्रतिनिवृत्तः जेम्स् डि. व्याट्सन् वर्षद्वयं यावत् क्यालिफोर्नियातन्त्रज्ञानसंस्थायां (California Institute of Technology) कार्यम् अकरोत् । ततः १९५५ तमे वर्षे प्राध्यापकरूपेण हार्वर्ड्–विश्वविद्यालयं प्राविशत् । अयं जेम्स् डि. व्याट्सन् १९६२ तमे वर्षे वैद्यकीयं तथा शरीरक्रियाविज्ञानस्य विभागे सहोद्योगिना फ्रान्सिस् हेच्. सि. क्रिकेन, तथा मार्गदर्शकेण मारीस् हेच्. विल्किन्सेन च सह "नोबेल्”–पुरस्कारं प्राप्नोत् । अयं जेम्स् डि. व्याट्सन् यदा केम्ब्रिड्ज्–विश्वविद्यालयं प्रति संशोधकरूपेण गतवान् तदा अस्य प्रतिभाम् अभिज्ञातवान् फ्रान्सिस् हेच्. क्रिक् एतं स्वेन सह संशोधनार्थम् अचिनोत् । वस्तुतः तयोः विलक्षणः स्नेहः । जेम्स् डि. व्याट्सन् अत्यन्तं मितभाषी, फ्रान्सिस् हेच्. सि. क्रिक् तु अतिभाषी । फ्रान्सिस् हेच्. सि. क्रिक् भौतविज्ञानी, जेम्स् डि. व्याट्सन् वंशशास्त्रस्य विज्ञानी । ताभ्यां द्वाभ्यां मिलित्वा कृतस्य कार्यस्य फलम् एव "व्याट्सन्–क्रिक्–चक्रकयुग्मम्” ।
वंशविज्ञानस्य आधारं कल्पितवान् ग्रिगोर् जान् मेण्डेल् नामकः विज्ञानी ’गुणलक्षणानि वंशश्रेणीतः वंशश्रेणीं प्रति निर्दिष्टानां नियमानाम् अनुसारम् एव गच्छन्ति’ इति उक्तवान् आसीत् । तदनन्तरं तद्विषये संशोधनं कृतवन्तः विज्ञानिनः वर्णतन्तवः (क्रोमोजोन्स्) कोशकेन्द्रेषु (न्यूक्लियस्) भवन्ति । निर्दिष्टसंख्यानां वर्णतन्तवः निर्दिष्टे प्रभेदे एव भवन्ति । कस्यापि जीविनः वर्णतन्तुषु अर्धभागः पितृपक्षतः, अर्धभागः मातृपक्षतः आगताः भवन्ति । सर्वस्मिन् अपि वर्णतन्तौ निर्दिष्टगुणस्य कारणीभूतः गुणाणुः (जीन्) भवति इत्यादीन् विषयान् संशोधितवन्तः । एते त्रयः (जेम्स् डि. व्याट्सन्, फ्रान्सिस् हेच्. सि. क्रिक्, मारीस् हेच्. विल्किन्स् च) तान् एव विषयान् आधारीकृत्य संशोधनस्य अनुवर्तनम् अकुर्वन् । तादृशेषु गुणाणुषु निहितं प्रकृतेः रहस्यं ज्ञातव्यं चेत् गुणाणोः रचना ज्ञातव्या आसीत् । यदा अयं जेम्स् डि. व्याट्सन् अमेरिकातः नेपल्स् प्रति मारीस् हेच्. विल्किन्सस्य सूचनां, विवरणं च प्रष्टुम् आगतः आसीत् तदा "डि एन् ए" अणोः क्ष-किरणचित्राणि अपश्यत् । तस्मिन् चित्रे तत्र तत्र छाया दृष्टा । तदा तन्मध्ये किम् अस्ति इति संशोधितं चेत् "डि एन् ए" अणोः रचना ज्ञायेत इति अभासत अस्य जेम्स् डि. व्याट्सनस्य ।