वेणुः (वाद्यम्)
वेणुवाद्यम् (Flute) सङ्गीतक्षेत्रे सुषिरवाद्येषु प्रसिद्धम् अस्ति । शास्त्रीयसङ्गीतस्य परम्परायां वाद्यानां महत्वं सुतराम् अस्त्येव। विना वाद्यैः अलङ्कारशून्या नारीव नीरससङ्गीतं भवति । विभिन्नेषु वाद्येषु सुषिरवाद्यानि प्रसिद्धानि सन्ति। वायुना एषां वाद्यानां वादनं भवति तानि सुषिरवाद्यानि भवन्ति । वेणु, नागस्वर, मुखतन्त्रिवाद्यम्, शहनायी, क्लारियोनेट् इत्यादीनि सुषिरवाद्यानि भवन्ति । एतेषु मधुरं मनमोहकं भगवता श्रीकृष्णेन वादितं वाद्यं वेणुवाद्यं भवति । द्वापरान्ते कृष्णावतारे भगवता श्रीकृष्णेन स्व वेणुवादनेन स्थावरम्, जङ्गमात्मकं प्रपञ्चम् एव आनन्दसागरे मज्जयतिस्म(भागवतम्) । सुषिर वाद्येषु प्रथमस्थाने स्थितं वाद्यम् अपि भवति । नाट्यशास्त्रस्य रचयिता भरतस्य काले अस्य वाद्यस्य प्रचुरावस्था आसीत् इति स्वग्रथितग्रन्थेनैव ज्ञायते । षष्ठिकलासु एषा वेणुवादनकला अन्तर्भूता ।
वेणुनिर्माणम्
[सम्पादयतु]फलितं, सरलंच वंशमानीय छायायां संस्थाप्य शोषणं करणीयम् । अनन्तरं कनिष्टिका प्रमाणे रन्ध्राणां छेदः कर्तव्यः । ८ रन्ध्राणि भवन्ति । ४ अङ्गुलान्तरे एकस्य रन्ध्रस्य छेदः कर्तव्यः। हिन्दुस्तानीशास्त्रीयसङ्गीतस्य, कर्णाटकशास्त्रीयसङ्गीतस्यच वेणुवाद्यस्य गात्रादि विषयेषु भेदाः वर्तन्ते ।
नामान्तराणि
[सम्पादयतु]- मुरलि
- बान्सुरी
- बाषि
- बान्हि
- वंशि
वेणुवादकाः
[सम्पादयतु]Sound samples
Bass Bansuri played with key of E(white three) सञ्चिकायाः श्रवणे समस्या भवति वा? ? पश्यतु माध्यम-साहाय्यम्। |
भारतीयाः प्रसिद्धाः वेणुवादकाः।
- हरिप्रसादः चौरासिया
- प्रवीणः गोडखिण्डि
- एस् आकाशः
- सोक्किल् माला चन्द्रशेखरः
- मोहित् चौहान्
- राकेशः चौरासिया
- पन्नालाल् घोष्
- नित्यानन्दः हल्दीपूर
- जि एस् राजन्
- चेतनः जोशि
- विजयः राघव राव्
- रोणु मुजुम्दार्