गोधूमः
गोधूमः | ||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
जैविकवर्गीकरणम् | ||||||||||||||||||
| ||||||||||||||||||
उपविभागीयस्तरः | ||||||||||||||||||
T. aestivum References: | ||||||||||||||||||
अयं गोधूमः प्रायः जगति सर्वत्र वर्धमानः कश्चन धान्यविशेषः । अयम् अपि सस्यजन्यः आहारपदार्थः । अयं गोधूमः आङ्लभाषायां Wheat इति उच्यते । हिन्दीभाषायां “गेंहू” इति, ल्याटिन्भाषायां Triticum vulgare इति च उच्यते । तृणकुले अयं गोधूमः Graminea कुले अन्तर्भवति । प्रायः जगति अधिकांशेषु देशेषु गोधूमः एव प्रधानः आहारः । बहुदुग्धः, क्षीरी, अरूपः, म्लेच्छभोजनः, यवनः, निस्तुषः, रसालः, सुमनाः इत्यादीनि गोधूमस्य अन्यानि नामानि । अनेन गोधूमेन पूरिका, रोटिका, पायसं, पर्पटः, अवदंशः, सुपिष्टकं, पिष्टकम् इत्यादयः खाद्यपदार्थाः निर्मीयन्ते । गोधूमे महागोधूमः, मधूली, नन्दीमुखी इति त्रयः प्रभेदाः सन्ति । नवग्रहेषु अन्यतमस्य सूर्यस्य श्रेष्ठं धान्यं गोधूमः । एतं गोधूमम् अपि संस्कृत्य बहुविधं खाद्यविशेषं निर्मान्ति ।
आयुर्वेदस्य अनुसारम् अस्य गोधूमस्य स्वभावः
[सम्पादयतु]गोधूमः तैलांशयुक्तः । अयं मधुररुचियुक्तः, पचनार्थं जडः च । गोधूमः अत्यन्तं चैतन्यदायकः, बलवर्धकः, रुचिकरः, वर्णकारकः, व्रणसंरोपकः च ।
- “गोधूमः मधुरः शीतो वातपित्तहरो गुरुः ।
- कफशुक्रप्रदो बल्यः स्निग्धः सन्धान्कृत् सरः ॥
- जीवनो बृंहणो वर्ण्यो व्रण्यो रुच्यः स्थिरत्वकृत् ॥“ (भावप्रकाशः – ३४)
- “वृष्यः शीतो गुरुः स्निग्धो जीवनो वातपित्तहा ।
- सन्धानकारी मधुरो गोधूमो स्थैर्यकृत्सरः ॥“
- १. गोधूमः वातं पित्तं च परिहरति ।
- २. गोधूमः कफं शुक्रं च वर्धयति ।
- ३. अयं गोधूमः देहवृद्धिकरः, चैतन्यदायकः, बलवर्धकः च ।
- ४. गोधूमः वर्णकारकः, रुचिकरः च ।
- ५. अयं गोधूमः भग्नानाम् अस्थीनां पुनः योजने साहाय्यकारी ।
- ६. अयं गोधूमः शरिरस्य स्थिरतां रक्षति ।
- ७. गोधूमः व्रणान् बहुशीघ्रं शुष्कीकरोति ।
- ८. अयं गोधूमः शरीरस्य ओजः वर्धयति ।
- ९. गोधूमः मलविसर्जनं कारयति ।
- १०. गोधूमः वीर्यवर्धकः, शरीरस्य दार्ढ्यवर्धकः च ।
- ११. मधूली नामकः गोधूमः मध्यप्रदेशे वर्धते । सः लघ्वाकारकः , पथ्यः च ।
- १२. पञ्जाबप्रदेशे महागोधूमः वर्धते ।
- १३. नन्दीमुखी नामकः गोधूमः कण्टकरहितः । अयम् अपि मधूली इव पथ्यः ।
- १४. स्थूलानां स्थौल्यनिवारणार्थं गोधूमः अत्युत्तमः आहारः ।
- १५. गोधूमः उष्णः इति जनानाम् अभिप्रायः अस्ति । किन्तु शास्त्रानुगुणं गोधूमः शीतगुणयुक्तः ।
- १६. तैले भर्जिताः गोधूमेन निर्मिताः पूरिकाः, तैलम् उपयुज्य गोधूमेन निर्मिताः रोटिकाः च विदग्धाः भवन्ति इत्यनेन उष्णाः भवन्ति । अतः तैलं विना एव रोटिकाः निर्माय तदुपरि घृतं लेपयित्वा खादनेन उष्णाः न भवन्ति ।
- १७. अभ्यासः नास्ति चेत् केषाञ्चन अजीर्णः भवति गोधूमः । तेन अजीर्णस्य कारणेन पीनसः, कासः, अतिसारः वा भवति ।
- १८. गोधूमस्य उपयोगेन कदाचित् केषाञ्चन “अलर्जि” अपि भवितुम् अर्हति । तदा गोधूमस्य वर्जनम् एव वरम् ।
बाह्यसम्पर्कतन्तुः
[सम्पादयतु]- Information on wheat genome sequencing
- Price history of wheat, according to the IMF
- Photos of wheat fields
- Watch Australian science documentary on developing drought-resistant wheat
- Wheat Foods Council Est. 1972
- NAWG—Web site of the National Association of Wheat Growers
- CIMMYT—Web site of the International Maize and Wheat Improvement Center
- Triticum species at Purdue University
- A Workshop Report on Wheat Genome Sequencing
- Molecular Genetic Maps in Wild Emmer Wheat
- Winter Wheat in the Golden Belt of Kansas by James C. Malin, University of Kansas, 1944
- Varieties of club wheat hosted by the UNT Government Documents Department
- Triticum aestivum: facts, developmental stages, and inflorescence at GeoChemBio Archived २०१३-१२-०३ at the Wayback Machine
- Major topic "Triticum": free full-text articles in National Library of Medicine
- "Gold Harvest Feeds The World" Popular Mechanics, July 1949, post World War Two modernization of wheat harvesting