सामग्री पर जाएँ

बाल गङ्गाधर तिलक

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(बालगङ्गाधरतिलकः इत्यस्मात् पुनर्निर्दिष्टम्)
बाल गङ्गाधर तिलक
जन्म (१८५६-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ०-२३)२३ १८५६
रत्नगिरिः, महाराष्ट्रराज्यम्, भारतम्
मृत्युः स्क्रिप्ट त्रुटि: "death_date_and_age" फंक्शन मौजूद नहीं है।
मुम्बै, भारतम्
अन्यानि नामानि लोकमान्यः तिलकः
वृत्तिः क्रांतिकारी&Nbsp;edit this on wikidata
Organization Indian National Congress
आन्दोलनम् Indian Independence Movement
बालः बाल गङ्गाधरः स्वकुटुबज्येष्टैः सह

प्रवेशः

[सम्पादयतु]

बालगङ्गाधर तिलकः (क्रि.श.१८५६ तः १९२०) कश्चन महान् राष्ट्रभक्तः । भारतस्य स्वातन्त्रसङ्ग्रामे प्रमुखः नेता आसीत् । स्वतन्त्रतायाः आन्दोलनस्य प्रसङ्गे सः अघोषयत्‌ स्वराज्यम्‌ अस्माकं जन्मसिद्धः अधिकारः, तस्य प्राप्तेः अनन्तरमेव मम विरामः इति । समाचारपत्राणां प्रकाशनं सम्पादनं च कृत्वा स: देशसेवां करोति स्म । बहुबारं कारागारवासम् अनुभूतवान् स: संस्कृते विद्वान्‌ आसीत्‌ । अयं भारतीयः, राष्ट्रयवादी, समाजोत्थापकः स्वातन्त्र्ययोद्धा च । भारतीयप्रज्ञायां सम्पूर्णस्वराज्यप्राप्तेः आशा एतेनैव अङ्कुरितः । अनेन एतं राष्ट्रियतावादस्य पितामहः इति कथयन्ति स्म । अतीव जनप्रियः नायकः सन् लोकमान्यः इत्येव ख्यातः जातः । अद्यापि तस्य नाम एव लोकमान्यः इति बहवः मन्यन्ते । तिलकमहोदयः इतिहासं, संस्कृतं, हिन्दूधर्मं, गणितं, खगोलशास्त्रं च गभीरतया अधीतवान् आसीत् । त्यस्य जन्मः चित्पावनब्राह्मणकुले आस। ो

वैयक्तिकजीवनम्

[सम्पादयतु]

बालगङ्गाधरतिलकस्य जन्म क्रि.श.१८५६तमे वर्षे जुलै २३तमे दिने भारतस्य महाराष्ट्रराज्ये रत्नगिरिमण्डले मध्यमस्तरीये कुटुम्बे अभवत् []। पिता गङ्गाधरपन्तः, माता पार्वतीबायी । बाल्ये एव बुद्धिमतः तिलकस्य गणिते अतीव आसक्तिः आसीत् । बालः दशवर्षीयः यदा आसीत् तदा पितुः पुणेनगरं प्रति स्थानपरिवर्तनं जातम् । बालः वेर्नाक्युलर् आङ्ग्लविद्यालयं प्राविशत् । पुणेगमनानन्तरं स्वल्पावधौ एव माता दिवङ्गता । ततः षड्वर्षाणाम् अनन्तरं पिता अपि दिवङ्गतः । दुर्बलशरीरः बालः देशसेवा समीचीनतया करणीया चेत् शरीरं दृढतमं स्यात् इति विचिन्त्य व्यायामादीनाम् अभ्यासद्वारा परिश्रमपूर्वकं दृढं शरीरं सम्पादितवान् । सत्यभामा अस्य पत्नी । महाविद्यालयात् आधुनिकविद्यां प्राप्तेषु युवसु बालगङ्गाधरः अपि अन्यतमः अभवत् । पदवीं प्राप्य पुणे (पुण्यपत्तनम्) नगरे स्वायत्तशालायां गणिताध्यापकत्वेन कार्यम् आरब्धवान् । कञ्चित्कालानन्तरं तम् उद्योगं त्यक्त्वा पत्रकारः अभवत् । पाश्चिमात्यशिक्षाक्रमः भारतीयसनातनपरम्परां दूषयति अपि च भारतस्य विद्यार्थिषु हीनभावं जागर्ति इति निश्चित्य अस्य आधुनिकशिक्षाप्रणाल्याः विरोधम् अकरोत् । छात्राणां कृते उत्तमा शिक्षा लभेत इति उद्देशेन पुणेनगरे डेक्कन् एजुकेषन् सोसैटि इति शालाम् उपाक्रमत् []

राजकीयजीवनम्

[सम्पादयतु]

तिलकमहोदयेन उपक्रान्तः केसरी इति मराठीभाषायाः वार्तापत्रिका अतिशीघ्रं प्रसिद्धा अभवत् । अस्यां पत्रिकायां जनाः स्वाभिप्रायान् प्रकटयितुम् अर्हन्ति स्म । क्रि.श. १९०५तमे वर्षे बङ्गालस्य विभजनस्य विरोधं केसरीपत्रिका प्रबलतया अकरोत् । क्रि.श.१८९०तमे वर्षे तिलकमहोदयः काङ्ग्रेस् पक्षं प्रविष्टवान्, स्वातन्त्र्यान्दोलने तस्य पक्षस्य औदार्यं मृदुनीतिं च खण्डितवान् । गोपाकृष्ण गोखलेमहोदयस्य सौम्यवादं तीव्रतया निन्दितवान् । अस्मिन् विषये बङ्गालस्य बिपिन चन्द्रपालः पञ्जाबस्य लाला लजपत राय् च तिलकमहोदयस्य अनुमोदनं कृतवन्तौ । क्रि.श. १९०७तमे वर्षे सम्भूते सूरत् अधिवेशने काङ्ग्रेस्-पक्षः तिलकस्य नेतृत्वे घर्मदलः इति गोखलेवर्यस्य नेतृत्ते मृदुदलः इति द्विधा विभक्तः । राजद्रोहस्य आक्षेपात् क्रि.श.१९०६तमे वर्षे तिलकस्य बन्धनम् अभवत् । तदा स्वपक्षे न्यायवादं करोतु इति युवानं न्यायवादिनं मोहम्मद् अलि जिन्ना इत्येतं प्रार्थितवान् । किन्तु ब्रिटिश् न्यायाधीशः एषः अपराधी इति उद्घुष्टवान् । अतः सः क्रि.श.१९०८तः१९१४तमवर्षपर्यन्तं बर्मादेशस्य (ब्रह्मदेशः) मंडाले कारावासम् अनुभूतवान् []। विमोचनानन्तरं स्वस्य सहचरराष्ट्रवादिभिः सह तिलकमहोदयः क्रि.श.१९१६तमे वर्षे काङ्ग्रेस्-पक्षस्य सङ्घाटनं संवर्ध्य अखिलभारतस्य हों रूल् लीग् इति सङ्घटनस्य रचानायाम् अनिबेसण्ट् मोहम्मद् अलि जिन्ना एतयोः सहाय्यं समाचरत् ।

सामाजिकयोगदानानि

[सम्पादयतु]

बालगङ्गाधर तिलकमहोदयः मूलतः अद्वैतवेदान्तस्य प्रतिपादकः। अद्वैतसिद्धान्तस्य "ज्ञानादेव तु कैवल्यम्" इति वचने तस्य विश्वासः नासीत् । अतः तत्स्मानं पूरकं च कर्मयोगं तत्र योजितवान् । विवाहस्य वयसः कनिष्ठमानः इत्यादीनि सामाजिकपरिवर्तनानि आनीतवान् । मद्यपाननिषेधस्य विषये तस्य अतीव प्रमतिः आसीत् । शिक्षायाः राजकीयस्य च जीवनविषये अस्य चिन्तनानि प्रभावयुतानि आसन् । देवनागरीलिपिम् उपयुज्य लिख्यमाना हिन्दिभाषा राष्ट्रभाषा भवेत् इति प्रथमतया उक्तवान् तिलकः एव । अग्रे महात्मा गान्धी अपि एतं विषयं गाढम् अनुमोदितवान् । किन्तु यां भाषां तिलकमहोदयः भारतात् एव अपनेतुम् इष्टवान् सा आङ्ग्लभाषा अधुना अपि प्रधानसंवहनभाषात्वेन राजते । तथापि हिन्दी चान्यभाषाः ब्रिटिष् कालात् अद्यपर्यन्तमपि प्रादेशिकत्वेन भाष्यमाणाः सन्ति । अस्मिन् अपि तिलकमहोदयस्य योगदानम् अस्ति एव । तिलकमहोदयस्य अतिमहत् योगदानं नाम सार्वजनिकः गणेशोत्सवः । भाद्रपदमासस्य शुक्लपक्षस्य चतुर्दशीम् आरभ्य अनन्तचतुर्दशीपर्यन्तं द्वादशदिनानि अयं सार्वजनिकगणेशोत्सवः मिलित्वा आचर्यते । स्वायत्तं धार्मिकाचरणं सङ्घटनस्य व्याजेन सार्वजनिकोत्सवत्वेन परिवर्तितवान् । एतम् उत्सवम् अवलम्ब्य एव जननायकाः जनसम्पर्कम् अकुर्वन् । तिलकमहोदयेन आरब्धा इयम् उत्सवपरम्परा इदानीमपि विशेषतः महाराष्ट्रराज्ये अस्ति । तिलकमहोदयः परदेशीयवस्तूनि तिरस्कृत्य स्वदेशीयवस्तूनि उपयोक्तुं जनजागरणं कृतवान् । तदानीम् एतत् स्वदेशीयान्दोलनं विशेषरूपेण जनेषु देशभक्तिं समवर्धयत् []

बालगङ्गाधरतिलकः

तिलकोत्तरवर्षाणि

[सम्पादयतु]

तिलकमहोदयः गान्धिमहात्मनः अहिंसात्मकं सत्याग्रहं दूषयति स्म । कदाचित् क्रान्तिकारीति परिगणितः कालान्तरेण प्रौढविचारशीलः इति प्रसिद्धः अभवत् । स्वातन्त्र्यान्दोलनं सामान्यजनानां समीपं नीतवान् अयं तिलकमहोदयः स्वातन्त्र्यसमरस्य जनकः इत्येव प्रथितः । भारतीयसंस्कृतेः इतिहासस्य धर्मस्य च विषये लेखनेन भारतीयानां देशभक्तिं जागरितवान् । तिलकमहोदयं राजकीयस्य आध्यात्मिकस्य च नायकः इति एतस्मिन् विषये महात्मा गान्धी अस्य उत्तराधिकारी इति च जनाः भावयन्ति स्म । यदा बालगङ्गाधरतिलकः क्रि.श१९२०तमे वर्षे दिवङ्गतः तदा सम्मिलितानां द्विलक्षजनानां मध्ये गान्धिमहात्मा उक्तवान् यत् 'अयं आधुनिकभारतस्य जनकः' इति । तिलकमहोदयः दृढहिन्दुत्वस्य प्रतिपादकस्य विनायक दामोदर सावर्कर्महोदयस्य आराध्यः देवः अभवत् ।

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]
  1. ""EMINENT PERSONALITIES".". आह्रियत 13 मार्च 2014. 
  2. D. D. Karve. “The Deccan Education Society” The Journal of Asian Studies, vol. 20. pp. 206–207. 
  3. Encyclopedia of Asian History. "Tilak, Bal Gangadhar". New York: Charles Scribner's Sons and Macmillian Publishing Company. 1988. p. 98. 
  4. Ranbir Vohra (१९९७). The Making of India: A Historical Survey. Armonk: M.E. Sharpe, Inc. pp. १२०.