कूडलसङ्गमः
दिखावट
(कूडलसङ्गमम् इत्यस्मात् पुनर्निर्दिष्टम्)
कूडलसङ्गमः ಕೂಡಲಸಂಗಮ | |
---|---|
ग्रामः | |
कूडलसङ्गमे सङ्गमनाथदेवालयः | |
राष्ट्रम् | India |
राज्यानि | कर्णाटकराज्यम् |
मण्डलम् | बागल्कोटमण्डलम् |
भाषाः | |
• अधिकृत | कन्नडभाषा |
Time zone | UTC+5:30 (भारतीय सामान्यकालमानम्) |
दूरवाणीकूटसंख्या | 587115 |
Website | www.bagalkot.nic.in/koodal.htm |
कूडलसङ्गमम् कर्णाटकस्य बिजापुरमण्डले विद्यमानं किञ्चन तीर्थक्षेत्रम् । कृष्णामलप्रभानद्योः सङ्गमस्थानम् एतत् क्षेत्रम् । अत्र श्रीजातवेदमुनिः विद्याकेन्द्रं स्थापितवान् इति श्रूयते । महात्मा बसवेश्वरः कल्याणक्रान्तेः अनन्तरम् अत्र आगत्य कूडलसङ्गमेश्वरे ऐक्यः अभवत् । चालुक्यशैल्यां रचितः कूडलसङ्गमनाथदेवालयः ९०० वर्षैः प्राचीनः अस्ति । अत्रत्या शिल्पकला विशिष्टा अस्ति । गर्भगृहं दर्शनीयम् अस्ति । बसवेश्वरस्य ऐक्यमण्डपं परितः वृत्ताकारेण रचितः प्राकारः अस्ति । जले स्थितः एषः देवालयः विशेषानुभवं ददाति । कूडलसङ्गमक्षेत्रे बृहत् सभामण्डपं शिवशरणानां मूर्तिशिल्पानि सुन्दराणि सन्ति । समीपे आलमट्टिजलाशयः उद्यानवनं च स्तः । अत्र सङ्गमजले नौकाविहारं कर्तुं व्यवस्था अस्ति ।
मार्गः
[सम्पादयतु]- बिजापुरतः ६७ कि.मी. ।
- हुनगुन्दतः १९ कि.मी. ।
- बादामीतः ७२ कि.मी.।
- बेङ्गळूरुतः ५२० कि.मी. । राष्ट्रियमार्गसङ्ख्या १३
वीथिका
[सम्पादयतु]कूडलसङ्गमस्य विविधानि चित्राणि